Nicotto Town



雨の灰の日曜日 ひゃく詩時雨

agosto 5 sabato ☀︎ 38/26℃

आगरा آگرا‎, [äːɡ.ɾäː] india

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम् । आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले भारतस्य राजधानी आसीत् । मोगलवंशीयानांबाबरहुमायून् इत्यादीनां प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । अक्बरः आग्रातः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः १५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर शाहजहानः तेजोमहालयः इति प्रसिद्धं शिवालयं परिवर्त्य ताजमहल् इति स्मारकसौधं कृतवान् । औरङ्गजेबः राजधान्याः देहलीनगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानःऔरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । आग्रातः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । आग्रातः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले अकबरस्य मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।




月別アーカイブ

2024

2023

2022

2021

2020

2019

2018

2017

2016

2015


Copyright © 2024 SMILE-LAB Co., Ltd. All Rights Reserved.